मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२, ऋक् ७

संहिता

यस्मि॑न्दे॒वा वि॒दथे॑ मा॒दय॑न्ते वि॒वस्व॑त॒ः सद॑ने धा॒रय॑न्ते ।
सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॒॑क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ॥

पदपाठः

यस्मि॑न् । दे॒वाः । वि॒दथे॑ । मा॒दय॑न्ते । वि॒वस्व॑तः । सद॑ने । धा॒रय॑न्ते ।
सूर्ये॑ । ज्योतिः॑ । अद॑धुः । मा॒सि । अ॒क्तून् । परि॑ । द्यो॒त॒निम् । च॒र॒तः॒ । अज॑स्रा ॥

सायणभाष्यम्

यस्मिन्नग्नौ यज्ञस्य प्रधानांशे सति देवाइन्द्रादयोविदथे यज्ञे मादयन्ते । हविषात्मानं तर्पयन्ति तृप्यन्तिवा । अपिच विवस्वतोमनुष्यस्य यजमानस्य स्वभूते सदने वेद्याख्ये स्थाने धारयन्ते आत्मानं स्थापयन्तिच । किंच सूर्ये ज्योतिरहराख्यं तेजः अदधुः स्थपि- तवन्तः । मासि चन्द्रमसि अक्तून् रात्रीः स्थापितवन्तः । तदनंतरं अजस्रा अनुपक्षीणौ सूर्याचन्द्रमसौ द्योतनिं दीप्तिं परिचरतः परिगच्छतः सर्वत्र प्राप्नुतः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२