मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२, ऋक् ८

संहिता

यस्मि॑न्दे॒वा मन्म॑नि सं॒चर॑न्त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म ।
मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥

पदपाठः

यस्मि॑न् । दे॒वाः । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये॑ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ ।
मि॒त्रः । नः॒ । अत्र॑ । अदि॑तिः । अना॑गान् । स॒वि॒ता । दे॒वः । वरु॑णाय । वो॒च॒त् ॥

सायणभाष्यम्

देवाइन्द्रादयः यस्मिन्नग्नौ मन्मनि ज्ञानभूते ज्ञानवत्सर्वप्रकाशके सति संचरन्ति स्वाधि कारे संप्रवर्तन्ते । अपीच्येन्तर्हिते स्थितमस्याग्नेः स्वरूपं वयं नविद्म तत्वतोनजानीमः अत्रास्मिन्यज्ञे अंगभावाय वर्तमानोमित्रः वरुणाय सर्वेषां पापानां निवारयित्रे अग्नये नोस्मान् अनागानपापान् वोचत् ब्रवीतु । तथा अदितिर्देवमाता सविता सर्वस्य प्रेरको- देवश्च ब्रवीतु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२