मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३, ऋक् २

संहिता

य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यन्त॑ः ।
आ सी॑दतं॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ॥

पदपाठः

य॒मे इ॒वेति॑ य॒मेऽइ॑व । यत॑माने॒ इति॑ । यत् । ऐत॑म् । प्र । वा॒म् । भ॒र॒न् । मानु॑षाः । दे॒व॒ऽयन्तः॑ ।
आ । सी॒द॒त॒म् । स्वम् । ऊं॒ इति॑ । लो॒कम् । विदा॑ने॒ इति॑ । स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे । भ॒व॒त॒म् । इन्द॑वे । नः॒ ॥

सायणभाष्यम्

यमे इव यथा सहोत्पन्ने अपत्ये संचरतः तथा यतमाने गमनहविर्धारणादिस्वाधि- कारकर्मणि प्रवर्तमाने हविर्धानशकटे युवां यद्यदा एतं हविर्धानस्थानं प्रतिगच्छतः । तथा देवयन्तोदेवकामाः मानुषायजमानाः वां युवां प्रभरन् प्रभरन्ति । किंच युवां स्वमु लोकं आत्मीयमेव हविर्धानाख्यं स्थानं विदाने जानती आसीदतं ततः नोस्माकं इन्दवे सोमार्थं स्वासस्थे शोभननिवासास्थाने भवतं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३