मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३, ऋक् ३

संहिता

पञ्च॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे॑मि व्र॒तेन॑ ।
अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ॥

पदपाठः

पञ्च॑ । प॒दानि॑ । रु॒पः । अनु॑ । अ॒रो॒ह॒म् । चतुः॑ऽपदीम् । अनु॑ । ए॒मि॒ । व्र॒तेन॑ ।
अ॒क्षरे॑ण । प्रति॑ । मि॒मे॒ । ए॒ताम् । ऋ॒तस्य॑ । नाभौ॑ । अधि॑ । सम् । पु॒ना॒मि॒ ॥

सायणभाष्यम्

रुपः यष्टृणां स्वर्गमारोपयितुर्यज्ञस्यांगत्वेन संबन्धीनि पंचसंख्याकानि धानासोमपशु- पुरोडाशाज्याख्यानि पदानि वृत्तिहेतुत्वेन देवान् प्रति गन्तॄणि हवींषि अन्वरोहं अनुरो- हामिशकटे युवयोः स्थापनवहनानन्तरं करणे करोमीत्यर्थः । किंच चतुष्पदीं चतुर्भिः पदै- र्युक्तां त्रिष्टुबादिछन्दसं क्रियां व्रतेन प्रयोगकर्मणा अन्वेमि अनुगच्छामि यथाकालं प्रयुन- ज्मीत्यर्थः । अक्षरेण प्रणवाख्येन एतामुपस्थितां प्रतिगरक्रियां प्रतिमिमे निर्ममे । अपिच ऋतस्य यज्ञस्य अधीति सप्तम्यर्थानुवादी नाभौ नाभिभूते वेद्याख्ये स्थाने संपुनामि सं- शोधयामि दशापवित्रेण सोमं संस्करोमीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३