मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३, ऋक् ४

संहिता

दे॒वेभ्य॒ः कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत ।
बृह॒स्पतिं॑ य॒ज्ञम॑कृण्वत॒ ऋषिं॑ प्रि॒यां य॒मस्त॒न्वं१॒॑ प्रारि॑रेचीत् ॥

पदपाठः

दे॒वेभ्यः॑ । कम् । अ॒वृ॒णी॒त॒ । मृ॒त्युम् । प्र॒ऽजायै॑ । कम् । अ॒मृत॑म् । न । अ॒वृ॒णी॒त॒ ।
बृह॒स्पति॑म् । य॒ज्ञम् । अ॒कृ॒ण्व॒त॒ । ऋषि॑म् । प्रि॒याम् । य॒मः । त॒न्व॑म् । प्र । अ॒रि॒रे॒ची॒त् ॥

सायणभाष्यम्

देवेभ्योदेवानां मृत्युं मारयितारं कं स्वपुरुषं आवृणीत प्रार्थयते प्रयुक्ते । किंच प्रजायै देवव्यतिरिक्तायामनुष्यादिकायाः प्रजायाः अमृतममारकं अविनाशकं वा स्वपुरुषं नावृ- णीत नप्रयुंक्ते हविर्धारणीक्रियायां प्रवृत्तायां सत्यां पूर्वोक्तानां सर्वेषां स्थितेरवश्यंभावि- त्वात् न कंचिदपि विनाशकं स्वपुरुषं यमोनिरूपयतीत्यर्थः । अपिच बृहस्पतिं बृहतां देवानां हविर्धारणे पालकं बृहतां मंत्राणां स्वामिनं वा ऋषिं सर्वस्य दृष्टादृष्टफलस्य द्रष्टारं यज्ञं अकृण्वत ऋत्विग्यजमानाः कुर्वन्ति । अपिच यमः प्रियां तन्वं अस्मदीयमिष्टं शरीरं प्रारिरेचीन् धातूनामनेकार्थत्वात् रिचिरत्र परिहारार्थे वर्तते प्ररेचयति मृत्योः सका शात्परिहरति कर्मवैगुण्यजनितदोषाभावादस्माकं जीवितं नापहरतीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३