मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् ७

संहिता

प्रेहि॒ प्रेहि॑ प॒थिभि॑ः पू॒र्व्येभि॒र्यत्रा॑ न॒ः पूर्वे॑ पि॒तरः॑ परे॒युः ।
उ॒भा राजा॑ना स्व॒धया॒ मद॑न्ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ॥

पदपाठः

प्र । इ॒हि॒ । प्र । इ॒हि॒ । प॒थिऽभिः॑ । पू॒र्व्येभिः॑ । यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः ।
उ॒भा । राजा॑ना । स्व॒धया॑ । मद॑न्ता । य॒मम् । प॒श्या॒सि॒ । वरु॑णम् । च॒ । दे॒वम् ॥

सायणभाष्यम्

यत्र यस्मिन् स्थाने नोस्माकं पूर्वे पुरातनाः पितरः पितामहादयः परेयुः पूर्व्येभिः पूर्वस्मिन् कालेभवैः अनादिकालप्रवृत्तैरित्यर्थः पथिभिर्मार्गैः हे मत्पितः तत्स्थानं प्रेहिप्रेहि प्रगच्छ । गत्वा च स्वधया अमृतान्नेन मदान्ता मदन्तौ तृप्यन्तौ राजाना राजानौ उभा उभौ यमं देवं द्योतमानं वरुणं पश्यासि पश्य ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५