मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४, ऋक् ११

संहिता

यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सौ ।
ताभ्या॑मेनं॒ परि॑ देहि राजन्त्स्व॒स्ति चा॑स्मा अनमी॒वं च॑ धेहि ॥

पदपाठः

यौ । ते॒ । श्वानौ॑ । य॒म॒ । र॒क्षि॒तारौ॑ । च॒तुः॒ऽअ॒क्षौ । प॒थि॒रक्षी॒ इति॑ प॒थि॒ऽरक्षी॑ । नृ॒ऽचक्ष॑सौ ।
ताभ्या॑म् । ए॒न॒म् । परि॑ । दे॒हि॒ । रा॒ज॒न् । स्व॒स्ति । च॒ । अ॒स्मै॒ । अ॒न॒मी॒वम् । च॒ । धे॒हि॒ ॥

सायणभाष्यम्

हे राजन् हे यम ते त्वदीयौ यौ श्वानौ विद्येते ताभ्यां श्वभ्यां हे राजन् यम एनं प्रेतं परिदेहि रक्षार्थं प्रयच्छ । कीदृशौ श्वानौ रक्षितारौ यमगृहस्य रक्षकौ चतुरक्षौ अक्षि चतुष्टययुक्तौ पथिरक्षि मार्गस्य रक्षकौ नृचक्षसौ मनुष्यैः ख्याप्यमानौ श्रुतिस्मृतिपुराणा- भिज्ञाः पुरुषास्तौ प्रख्यापयन्ति ताभ्यां श्वभ्यां दत्वा अस्मै प्रेताय स्वस्ति च क्षिममपि अनमीवं च रोगाभावमपि धेहि संपादय ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६