मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् १

संहिता

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥

पदपाठः

उत् । ई॒र॒ता॒म् । अव॑रे । उत् । परा॑सः । उत् । म॒ध्य॒माः । पि॒तरः॑ । सो॒म्यासः॑ ।
असु॑म् । ये । ई॒युः । अ॒वृ॒काः । ऋ॒त॒ऽज्ञाः । ते । नः॒ । अ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥

सायणभाष्यम्

त्रिविधाः पितरः उत्तमामध्यमाअधमाश्चेति यथाविधं श्रौतं कर्मानुष्ठाय पितृत्वं प्राप्ता- उत्तमाः त्मार्तकर्ममात्रपरामध्यमाः अत्रापिकैश्चित् संस्कारैः विकलाअधमाः एतदेवाभिप्रेत्य ये अग्निदग्धायेअनग्निदग्धाइत्यादिमंत्रे समाम्नाताः । तेष्ववरे निकृष्टाः उदीरतां उत्तमं हविः प्राप्नुवन्तु । परासः उत्तमाः पितरः उदीरतां मध्यमाः पितरः उदीरतां ते सर्वेप्यस्मद्विषये सोम्यासः सोम्याअनुग्रहपराः सन्तु । ये पितरः अवृकाः वृकवदरण्यश्वावदस्मासु हिंसामकुर्वं तः ऋतज्ञाः अस्मदनुष्ठितं यज्ञं जानन्तः असुमस्मत्प्राणमीयुः रक्षितुं प्राप्तास्ते पितरः हवे- ष्वस्मदीयेष्वाह्वानेषु नोस्मानवन्तु रक्षन्तु ॥ १ ॥ महापितृयज्ञे पितरोबर्हिषदइत्यस्येदंपितृभ्यइति द्वितीयानुवाक्या । सूत्रंतु पूर्वमेवोहा हृतम् । आग्निमारुते इदंपितृभ्यइत्येषा धाय्या । सूत्रितंच—आहंपितॄन्त्सुविदत्राँअवित्सीदंपितृ भ्योनमोअस्त्वद्यस्वादुष्किलायमितिचतस्रइति । महापितृयज्ञे पितरोबर्हिषदइत्यस्य द्वितीया नुवाक्या । सूत्रंतु पूर्वमुदाहृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७