मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् ३

संहिता

आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णो॑ः ।
ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥

पदपाठः

आ । अ॒हम् । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । अ॒वि॒त्सि॒ । नपा॑तम् । च॒ । वि॒ऽक्रम॑णम् । च॒ । विष्णोः॑ ।
ब॒र्हि॒ऽसदः॑ । ये । स्व॒धया॑ । सु॒तस्य॑ । भज॑न्त । पि॒त्वः । ते । इ॒ह । आऽग॑मिष्ठाः ॥

सायणभाष्यम्

अहं यजमानः सुविदत्रान् मदीयां भक्तिं सुष्ठु जानतः पितॄन् आअवित्सि आभिमुख्येन लब्धवानस्मि । विष्णोर्व्यापिनोयज्ञस्य नपातं च विनाशाभावं च विक्रमणं विशेषेणप्रवृत्तिं च लब्धवानस्मि ये पितरोबर्हिषदः बर्हिषि सीदन्ति ते इहास्मिन्कर्मणि आगमिष्ठाः अति शयेनागताः आदरपूर्वं समागत्य स्वधया पुरोडाशाद्यन्नेन सह सुतस्याभिषुतस्य सोमलक्ष णस्य पित्वः पितोरन्नस्य भागं भजन्त सेवन्ते उपयुंजते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७