मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् ४

संहिता

बर्हि॑षदः पितर ऊ॒त्य१॒॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् ।
त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॑ न॒ः शं योर॑र॒पो द॑धात ॥

पदपाठः

बर्हि॑ऽसदः । पि॒त॒रः॒ । ऊ॒ती । अ॒र्वाक् । इ॒मा । वः॒ । ह॒व्या । च॒कृ॒म॒ । जु॒षध्व॑म् ।
ते । आ । ग॒त॒ । अव॑सा । शम्ऽत॑मेन । अथ॑ । नः॒ । शम् । योः । अ॒र॒पः । द॒धा॒त॒ ॥

सायणभाष्यम्

हे बर्हिषदः बर्हिषि यज्ञे सीदन्तीति बर्हिषदः अत्रापि ये वैयज्वानस्तेपितरोबर्हिषदइ- त्यत्र श्रुतत्वात् । यागं कृत्वा प्रेत्य पितृलोकं प्राप्ताः बर्हिषदः तादृशा हे पितरः अर्वागर्वा चीननामस्माकमूती रक्षा भवद्भिः कर्तव्येति शेषः । वोयुश्मदर्थं इमा हव्या एतानि हवींषि चकृम अतस्तानि जुषध्वं ते हविर्जुष्टवन्तोयूयं शंतमेन सुखतमेन अवसा रक्षणेन निमित्त भूतेन आगत आभिमुख्येनास्मान् प्राप्नुत । अथानन्तरं नोस्मभ्यं शं सुखं योः दुःखवियोगं अरपः पापरहितं च दधात दत्त ॥ ४ ॥ महापितृयज्ञे पितरः सोमवन्तइत्यस्य याज्या उपहूताः पितरइत्येषा । सूत्रितंच—उप हूताः पितरः सोम्यासस्त्वंसोमप्रचिकितोमनीषेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७