मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् ५

संहिता

उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒स्मान् ॥

पदपाठः

उप॑ऽहूताः । पि॒तरः॑ । सो॒म्यासः॑ । ब॒र्हि॒ष्ये॑षु । नि॒ऽधिषु॑ । प्रि॒येषु॑ ।
ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । अधि॑ । ब्रु॒व॒न्तु॒ । ते । अ॒व॒न्तु॒ । अ॒स्मान् ॥

सायणभाष्यम्

सोम्यासः सोम्याः अस्मदनुग्रहपराः सोमसंपादिनोवा पितरः बर्हिष्येषु प्रियेषु तृप्ति करेषु निधिषु निधिसदृशेषु हविःषु निमित्तभूतेषु सत्सु उपहूताअस्माभिराहूतास्ते पितरः आगमन्तु आगच्छंतु आगत्य च इहास्मिन्कर्मणि अस्माभिः प्रयुक्ताः स्तुतीः श्रुवन्तु श्रृण्व- न्तु । श्रुत्वा च अधिब्रुवन्तु साधुरयं यजमानइत्यादरेण कथयन्तु ते तादृशाः पितरः अस्मा नवन्तु रक्षन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७