मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् ६

संहिता

आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ ।
मा हिं॑सिष्ट पितर॒ः केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ॥

पदपाठः

आ॒ऽअच्य॑ । जानु॑ । द॒क्षि॒ण॒तः । नि॒ऽसद्य॑ । इ॒मम् । य॒ज्ञम् । अ॒भि । गृ॒णी॒त॒ । विश्वे॑ ।
मा । हिं॒सि॒ष्ट॒ । पि॒त॒रः॒ । केन॑ । चि॒त् । नः॒ । यत् । वः॒ । आगः॑ । पु॒रु॒षता॑ । करा॑म ॥

सायणभाष्यम्

पितृणामयं स्वाभाविकोधर्मः अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्येति वचना- त् । हे पितरः विश्वे सर्वे यूयं जानु आच्य भूमौ निपात्य दक्षिणतः दक्षिणपार्श्वे निषद्यो पविश्य इममस्मदीयं यज्ञं अभिगृणीत अभिष्टुत विशिष्टतृप्तियोगात्परया प्रीत्या सगुणोयं यज्ञइति च शंसतेत्यर्थः । अपिच वोयुष्माकं यत्किंचित् कर्मवैगुण्यजनितं आगः अपराधं पुरुषता मनुष्यत्वेन हेतुना कराम वयं कृतवन्तः हे पितरः तेन केनचिदप्यपराधेन नो- स्मान् माहिंसिष्ट ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८