मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् ७

संहिता

आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।
पु॒त्रेभ्य॑ः पितर॒स्तस्य॒ वस्व॒ः प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥

पदपाठः

आसी॑नासः । अ॒रु॒णीना॑म् । उ॒पऽस्थे॑ । र॒यिम् । ध॒त्त॒ । दा॒शुषे॑ । मर्त्या॑य ।
पु॒त्रेभ्यः॑ । पि॒त॒रः॒ । तस्य॑ । वस्वः॑ । प्र । य॒च्छ॒त॒ । ते । इ॒ह । ऊर्ज॑म् । द॒धा॒त॒ ॥

सायणभाष्यम्

अरुणीनामारोचमानानां ज्वालानां वा देवतानां वा उपस्थे समीपस्थाने वेद्याख्ये आ- सीनासः उपविष्टाः पितरोयूयं दाशुषे हविर्दत्तवते मर्त्याय मनुष्याय यजमानाय रयिं धनं धत्त दत्त हे पितरोयूयं तस्य यजमानस्य पुत्रेभ्यः वस्वोवसु धनं प्रयच्छत ते तादृशायूयं इहास्मिन्नस्मदीये कर्मणि ऊर्जं धनं दधात निधत्त ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८