मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् ९

संहिता

ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विद॒ः स्तोम॑तष्टासो अ॒र्कैः ।
आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भि॑ः ॥

पदपाठः

ये । त॒तृ॒षुः । दे॒व॒ऽत्रा । जेह॑मानाः । हो॒त्रा॒ऽविदः॑ । स्तोम॑ऽतष्टासः । अ॒र्कैः ।
आ । अ॒ग्ने॒ । या॒हि॒ । सु॒ऽवि॒दत्रे॑भिः । अ॒र्वाङ् । स॒त्यैः । क॒व्यैः । पि॒तृऽभिः॑ । घ॒र्म॒सत्ऽभिः॑ ॥

सायणभाष्यम्

देवत्रा देवान् जेहमानाः क्रमेण गच्छन्तः क्रमेण देवत्वं प्राप्ताइत्यर्थः । होत्राविदः य- ज्ञान् सम्यक्कर्तुं वेदितारः अर्कैरर्चनीयैः स्तोत्रैः स्तोमतष्टासः स्तोमानां च सम्यक्कर्तारः ये पितरः तातृषुः तृष्यन्ति हे अग्ने त्वं तैः पितृभिः आ अर्वाङ् अस्मदभिमुखः आयाहि आ- गच्छ । कीदृशैः सुविदत्रेभिः सुविदत्रैः सत्यैरविसंवादिभिः कव्यैः कव्यं नाम पितृदेवत्यं हविः तत्संबन्धिभिः यद्वा कव्यैः कविभिर्मेधाविभिः स्वार्थिकोयत् घर्मसद्भिः यज्ञसादिभिः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८