मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् १०

संहिता

ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॒ दधा॑नाः ।
आग्ने॑ याहि स॒हस्रं॑ देवव॒न्दैः परै॒ः पूर्वै॑ः पि॒तृभि॑र्घर्म॒सद्भि॑ः ॥

पदपाठः

ये । स॒त्यासः॑ । ह॒विः॒ऽअदः॑ । ह॒विः॒ऽपाः । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । दधा॑नाः ।
आ । अ॒ग्ने॒ । या॒हि॒ । स॒हस्र॑म् । दे॒व॒ऽव॒न्दैः । परैः॑ । पूर्वैः॑ । पि॒तृऽभिः॑ । घ॒र्म॒सत्ऽभिः॑ ॥

सायणभाष्यम्

सत्यासः सत्याय पितरः हविरदः भक्षणयोग्यस्य हविषः अत्तारोभक्षयितारः हविष्पाः पानयोग्यस्य हविषः पातारः इन्द्रेण देवैः सरथं समानमेकं तुल्यं दधानाः लडर्थे शानच् गमनाय सदा धारयन्ति हे अग्ने तैः पितृभिः सह आयाह्यागच्छ । कीदृशः सहस्रं तृती- यार्थे प्रथमा सहस्रेण बहुभिरित्यर्थः देववन्दैः देवसंबन्धिभिः स्तोत्रैर्युक्ताः परैः परकालीनैः पूर्वैः पूर्वकालीनैः घर्मसद्भिः यज्ञसादिभिः महावीरसादिभिः आदित्यसादिभिर्वा ॥ १० ॥ महापितृयज्ञे पितरोग्निष्वात्ताइत्यस्य अग्निष्वात्ताः पितरइत्येषा प्रथमानुवाक्या । सूत्रि- तंच—अग्निष्वात्ताः पितरएहगच्छत येचेहपितरोयेचनेहेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८