मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् १३

संहिता

ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म ।
त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जुषस्व ॥

पदपाठः

ये । च॒ । इ॒ह । पि॒तरः॑ । ये । च॒ । न । इ॒ह । यान् । च॒ । वि॒द्म । यान् । ऊं॒ इति॑ । च॒ । न । प्र॒ऽवि॒द्म ।
त्वम् । वे॒त्थ॒ । यति॑ । ते । जा॒त॒ऽवे॒दः॒ । स्व॒धाभिः॑ । य॒ज्ञम् । सुऽकृ॑तम् । जु॒ष॒स्व॒ ॥

सायणभाष्यम्

ये च पितरः इहास्मत्समीपे वर्तन्ते येच इह न सन्ति याँश्च पितॄन् विद्म सन्निकृष्ट- त्वाजानीम यान् उचन अपिच न प्रविद्म विप्रकृष्टत्वात् वयं न विजानीमः यति ते याव न्तस्ते भवन्ति तान् सर्वान् यथोक्तान् हे जातवेदः उत्पन्नसर्ववस्तुविषयज्ञानाग्ने त्वं वेत्थ जानासि स्तधाभिर्हविर्लक्षणैरन्नैः सुकृतं साधुकृतं यज्ञं जुषस्व प्रीत्या गृहाण ॥ १३ ॥ पूर्वोक्तएव यागे येअग्निदग्धा इत्येषा याज्या । सूत्रितंच—येअग्निदग्धायेअनग्निदग्धा इमंयमप्रस्तहितिदेति द्वे इति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९