मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५, ऋक् १४

संहिता

ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते ।
तेभि॑ः स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥

पदपाठः

ये । अ॒ग्नि॒ऽद॒ग्धाः । ये । अन॑ग्निऽदग्धाः । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दय॑न्ते ।
तेभिः॑ । स्व॒ऽराट् । असु॑ऽनीतिम् । ए॒ताम् । य॒था॒ऽव॒शम् । त॒न्व॑म् । क॒ल्प॒य॒स्व॒ ॥

सायणभाष्यम्

ये पितरः अग्निदग्धाः अग्निना भस्मीकृताः श्मशानं प्राप्ताइत्यर्थः ये च पितरः अनग्नि दग्धाः श्मशानकर्म न प्राप्ताः मध्येदिवः द्युलोकस्य मध्ये स्वधया हविर्लक्षणेनान्नेन मादय न्ते तृप्यन्ति हे अग्ने स्वराट् स्वकर्मोपभोगेन दीप्यमानः तेभिस्वैः पितृभिः सहितः सन् असुनीतिं प्राणानां विषयेषु नेतारं अस्मत्पित्रन्तरात्मानं एतां तन्वं एतद्देवताशरीरं यथा वशं यथाकामं कल्पयस्व समर्थयस्व ग्रासयेत्यर्थः ॥ १४ ॥

मैनमिति चतुर्दशर्चं षोडशं सूक्तं यमपुत्रस्य दमनस्यार्षं आदितोदश त्रिष्टुभः ततश्च- तस्रोनुष्टुभः अग्निर्देवता । तथाचानुक्रान्तं—मैनं दमनआग्नेयं चतुरनुष्टुबन्तमिति । दीक्षित मरणे आद्याः षळृचः शंसनीयाः । सूत्रितंच—मैनमग्नेविदहोमाभिशोचइति षट् पूषात्वेत श्चयावयतुप्रविद्वानिति । दह्यमानस्यप्रेतस्योपस्थानेप्येताः शंसनीयाः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९