मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् १

संहिता

मैन॑मग्ने॒ वि द॑हो॒ माभि शो॑चो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम् ।
य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तृभ्य॑ः ॥

पदपाठः

मा । ए॒न॒म् । अ॒ग्ने॒ । वि । द॒हः॒ । मा । अ॒भि । शो॒चः॒ । मा । अ॒स्य॒ । त्वच॑म् । चि॒क्षि॒पः॒ । मा । शरी॑रम् ।
य॒दा । शृ॒तम् । कृ॒णवः॑ । जा॒त॒ऽवे॒दः॒ । अथ॑ । ई॒म् । ए॒न॒म् । प्र । हि॒णु॒ता॒त् । पि॒तृऽभ्यः॑ ॥

सायणभाष्यम्

हे अग्ने एनं प्रेतं माविदहः विशेषेण दग्धं भस्मीभूतं माकुरु माभिशोचः अभितः शोकेन संतापेन युक्तं माकुरु । अस्य त्वचं माचिक्षिपः इतस्ततोविक्षिप्तां माकुरु शरीर- मपि विक्षिप्तं माकुरु । हे जातवेदः अग्ने यदा त्वं श्रृतं पक्वं सुदग्धं कृणवः करिष्यसि अथ तदानीं ईमेनं प्रेतं पितृभ्यः प्राहिणुतात् पितृसमीपे प्रेरय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०