मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् २

संहिता

शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्य॑ः ।
य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥

पदपाठः

शृ॒तम् । य॒दा । कर॑सि । जा॒त॒ऽवे॒दः॒ । अथ॑ । ई॒म् । ए॒न॒म् । परि॑ । द॒त्ता॒त् । पि॒तृऽभ्यः॑ ।
य॒दा । गच्छा॑ति । असु॑ऽनीतिम् । ए॒ताम् । अथ॑ । दे॒वाना॑म् । व॒श॒ऽनीः । भ॒वा॒ति॒ ॥

सायणभाष्यम्

हे जातवेदः यदा प्रेतशरीरं श्रृतं पक्वं करसि करिष्यसि अथ ईं तदानीमेव एनं प्रेतं पित्रुभ्यः परिदत्तात् प्रयच्छ यदा अयं प्रेतः एतामग्निना कृतामसुनीतिं प्राणस्य नयनं प्राणप्रेरणं गच्छाति गच्छति प्राप्नोति अथ तदानीमेव देवानां वाशनी देवानां वशं प्रापि तोभवाति भवति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०