मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् ३

संहिता

सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा ।
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥

पदपाठः

सूर्य॑म् । चक्षुः॑ । ग॒च्छ॒तु॒ । वात॑म् । आ॒त्मा । द्याम् । च॒ । ग॒च्छ॒ । पृ॒थि॒वीम् । च॒ । धर्म॑णा ।
अ॒पः । वा॒ । ग॒च्छ॒ । यदि॑ । तत्र॑ । ते॒ । हि॒तम् । ओष॑धीषु । प्रति॑ । ति॒ष्ठ॒ । शरी॑रैः ॥

सायणभाष्यम्

हे प्रेत ते त्वदीयं चक्षुरिन्द्रियं सूर्यं गच्छतु प्राप्नोतु आत्मा प्राणः वातं बाह्यं वायुं गच्छतु अपिच त्वमपि धर्मणा सुकृतेन तत्फलं भोक्तुं द्यां च अत्र च शब्दोविकल्पार्थे द्युलोकं वा प्रुथिवीं च पृथिवीं वा गच्छ प्राप्नुहि अपोवान्तरिक्षलोकं गच्छ प्राप्नुहि यदि तत्रान्तरिक्षे हितं स्थापितं ते तव कर्मफलं ओषधीषु शरीरैः शरीरावयवैः प्रतितिष्ठ प्रतितिष्ठति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०