मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् ६

संहिता

यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः ।
अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥

पदपाठः

यत् । ते॒ । कृ॒ष्णः । श॒कु॒नः । आ॒ऽतु॒तोद॑ । पि॒पी॒लः । स॒र्पः । उ॒त । वा॒ । श्वाप॑दः ।
अ॒ग्निः । तत् । वि॒श्व॒ऽअत् । अ॒ग॒दम् । कृ॒णो॒तु॒ । सोमः॑ । च॒ । यः । ब्रा॒ह्म॒णान् । आ॒ऽवि॒वेश॑ ॥

सायणभाष्यम्

हे मृतशरीर ते तव संबन्धि यदंगं कृष्णः शकुनः काकाख्यः आतुतोद आङीषदर्थे ईषत्तुन्नवान् तथा पिपीलः पिपीलिका वा सर्पोवा उतवा अपिवा श्वापदः श्वश्रृगालादिः एतेषामन्यतमोयदि तुन्नवानित्यर्थः विश्वात् सर्वस्यात्ता अग्निः तत्तादृशमंगं अगदं कृणोतु दोषरहितं करोतु संस्करोत्वित्यर्थः । तथा सोमश्च देवतारूपः ओषधिरूपोवा संस्करोतु यः सौमः ब्राह्मणान् ऋत्विगादीन् आविवेश प्रविष्टवान् ॥ ६ ॥ अनुस्तरण्यावपया प्रेतस्य मुखमग्नेर्वर्मेत्यनया प्रोर्णुयात् । सूत्रितंच—अनुस्तरण्यावपामु- त्खिद्य शिरोमुखं प्रच्छादयेदग्नेर्वर्मपरिगोभिर्व्ययस्वेतीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१