मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् ७

संहिता

अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च ।
नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्प॑र्य॒ङ्खया॑ते ॥

पदपाठः

अ॒ग्नेः । वर्म॑ । परि॑ । गोभिः॑ । व्य॒य॒स्व॒ । सम् । प्र । ऊ॒र्णु॒ष्व॒ । पीव॑सा । मेद॑सा । च॒ ।
न । इत् । त्वा॒ । धृ॒ष्णुः । हर॑सा । जर्हृ॑षाणः । द॒धृक् । वि॒ऽध॒क्ष्यन् । प॒रि॒ऽअ॒ङ्खया॑ते ॥

सायणभाष्यम्

हे प्रेत अग्नेः स्वभूतं वर्म ज्वालालक्षणं कवचं गोभिः अनुस्तरणीगोचर्मणा परिव्यय- स्व परितः संवृणु । किंच पीवसा स्थूलेन मेदसा मांसेन च संसम्यक् प्रोर्णुष्व आच्छादय । एवंकृते सति हरसा तेजसा धृष्णुर्धर्षणशीलः जर्हृषाणः अत्यर्थः हृष्यन् दधृक् धृष्टः प्रग- ल्भः । ऋत्विगित्यादिनादधृक् शब्दोनिपातितः । विधक्ष्यन् विविधं भस्मीकरिष्यन् एवंभूतो ग्निः त्वा त्वां ज्ञेत्पर्यंखयाते नैव सर्वतोविस्तारयति । अखेर्गत्यर्थाल्लेट्यडागमः ॥ ७ ॥ इममग्नेचमसमित्यनया प्रणीताप्रणयनमनुमंत्रयते । सूत्रितंच—इममग्नेचमसंमाविजिह्व- रइति प्रणीताप्रणयनमनुमंत्रयतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१