मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् ८

संहिता

इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् ।
ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ते ॥

पदपाठः

इ॒मम् । अ॒ग्ने॒ । च॒म॒सम् । मा । वि । जि॒ह्व॒रः॒ । प्रि॒यः । दे॒वाना॑म् । उ॒त । सो॒म्याना॑म् ।
ए॒षः । यः । च॒म॒सः । दे॒व॒ऽपानः॑ । तस्मि॑न् । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ ॥

सायणभाष्यम्

हे अग्ने इमं चमसं प्रणीताप्रणयनं माविजिह्वरः माविचालीः । यश्चमसः देवानामिन्द्रा दीनां प्रियः उतापिच सोम्यानां सोमार्हाणां पितॄणां प्रियः । किंच यएषचमसः देवपानः देवाः पिबंत्यस्मिन्निति देवपानस्थानीयोभवति तस्मिंश्चमसे अमृताः मरणवर्जितादेवाः पितरश्च मादयन्ते हव्यैः कव्यैश्च हृष्टाभवन्ति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१