मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् १०

संहिता

यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम् ।
तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥

पदपाठः

यः । अ॒ग्निः । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ । वः॒ । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तऽवे॑दसम् ।
तम् । ह॒रा॒मि॒ । पि॒तृ॒ऽय॒ज्ञाय॑ । दे॒वम् । सः । घ॒र्मम् । इ॒न्वा॒त् । प॒र॒मे । स॒धऽस्थे॑ ॥

सायणभाष्यम्

यः क्रव्यादोग्निः वोयुष्माकं गृहिणां गृहं प्रविवेश प्रविष्टवान् तं क्रव्यादं देवं हरामि गृहाद्बहिर्निष्क्रमयामीत्यर्थः । किमर्थं पितृयज्ञाय तदर्थम् । किंकुर्वन् इममितरं तस्मादन्यं हव्यवाहं जातवेदसं पश्यन् पर्यालोचयन् तथासति क्रव्यात् क्रव्यादात्परोग्निः परमे उत्कृष्टे सधस्थे सहस्थाने घर्मं यज्ञमिन्वात् प्राप्नोतु पितृभिर्घर्मपैः सहेतिशेषः ॥ १० ॥ महापितृयज्ञे वषट्कारक्रियायां योअग्निः क्रव्यवाहनइत्येषा स्विष्टकृतोयाज्या । सूत्रितंच—योअग्निः क्रव्यवाहनस्त्वमग्नर्हळितइति संयाज्ये इति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१