मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् ११

संहिता

यो अ॒ग्निः क्र॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ ।
प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥

पदपाठः

यः । अ॒ग्निः । क्र॒व्य॒ऽवाह॑नः । पि॒तॄन् । यक्ष॑त् । ऋ॒त॒ऽवृधः॑ ।
प्र । इत् । ऊं॒ इति॑ । ह॒व्यानि॑ । वो॒च॒ति॒ । दे॒वेभ्यः॑ । च॒ । पि॒तृऽभ्यः॑ । आ ॥

सायणभाष्यम्

क्रव्यवाहनः क्रव्यस्य हविषोवोढायोग्निः पितॄन् ऋतावृधः ऋतस्य यज्ञस्योदकस्य वा वर्धयितॄन् सत्येन वृद्धान्वा देवान् एतत्पितृविशेषणं वा स्तुतान् यक्षत् यजति यजेर्लेटि सिप् अडागमः । सोग्निः हव्यानि हवींषि प्रवोचतु पितृयज्ञे प्रब्रवीतु युष्मदर्थं मयानीतानी- ति । इदूपूरणौ केभ्यः देवेभ्यश्च पितृभ्यश्च । आकारः समुच्चये ॥ ११ ॥ महापितृयज्ञे उशन्तस्वेत्येषा सामिधेनी । सूत्र्यतेहि—उशन्तस्त्वानिधीमहीत्येतां त्रिरन- वानंताः सामिधेन्यइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२