मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् १२

संहिता

उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्त॒ः समि॑धीमहि ।
उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ॥

पदपाठः

उ॒शन्तः॑ । त्वा॒ । नि । धी॒म॒हि॒ । उ॒शन्तः॑ । सम् । इ॒धी॒म॒हि॒ ।
उ॒शन् । उ॒श॒तः । आ । व॒ह॒ । पि॒तॄन् । ह॒विषे॑ । अत्त॑वे ॥

सायणभाष्यम्

हे अग्ने उशन्तः कामयमानाः वयं त्वा त्वां निधीमहि कर्मार्थं स्थापितवन्तः । उशंतो वयं समिधीमहि संदीपयामः । त्वमपि उशन् कामयमानोहविरादिकं उशतः आगन्तुकामान् पितॄन् अस्मिन्यज्ञे आवह हविषे अस्माभिः प्रत्तं हविः अत्तवे अत्तुम् । अदेस्तुमर्थे तवेन् प्रत्ययः क्रियाग्रहणंकर्तव्यमितिकर्मणः संप्रदानसंज्ञा ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२