मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् १३

संहिता

यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑ ।
कि॒याम्ब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ॥

पदपाठः

यम् । त्वम् । अ॒ग्ने॒ । स॒म्ऽअद॑हः । तम् । ऊं॒ इति॑ । निः । वा॒प॒य॒ । पुन॒रिति॑ ।
कि॒याम्बु॑ । अत्र॑ । रो॒ह॒तु॒ । पा॒क॒ऽदू॒र्वा । विऽअ॑ल्कशा ॥

सायणभाष्यम्

हे अग्ने त्वं पितृदहनकाले यं देशं समदहः पुरा सम्यक् दग्धवानसि । तिङिचोदात्तव- तीति समोनिघातः । तमु तमेव पुनर्निर्वापय अत्रास्मिन्देशे क्रियांबु कियत्प्रमाणमुदकं यस्मिन् तत्पुष्करिण्यादि रोहतु उत्पद्यताम् । किंच व्यल्कशा विविधशाखा पाकदूर्वा परि- पक्वदूर्वा च उत्पद्यतां ॥ १३ ॥ अस्थिसंचयने क्षीरोदकेन शमीशाखया त्रिः प्रसव्यं श्मशानायतनं प्रोक्षति शीतिके- शीतिकावतीत्यनया । सूत्रितंच—क्षीरोदकेनशमीशाखयात्रिःप्रसव्यंपरिव्रजन् प्रोक्षतिशीति- केशीतिकावतीतीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२