मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् १४

संहिता

शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति ।
म॒ण्डू॒क्या॒३॒॑ सु सं ग॑म इ॒मं स्व१॒॑ग्निं ह॑र्षय ॥

पदपाठः

शीति॑के । शीति॑काऽवति । ह्लादि॑के । ह्लादि॑काऽवति ।
म॒ण्डू॒क्या॑ । सु । सम् । ग॒मः॒ । इ॒मम् । सु । अ॒ग्निम् । ह॒र्ष॒य॒ ॥

सायणभाष्यम्

हे शीतिके शैत्ययुक्ते हे शीतिकावति शीतिकाः शैत्ययुक्ताओषधयस्ताभिस्तद्वति हे ह्लादिके आह्लादयित्रि हे आह्लादिकावति आह्लादकफलयुक्तैर्वृक्षैस्तद्वति हे पृथिवि मंडूक्या मंडूकस्त्रिया वृष्टिप्रियया सु सुष्ठु संगमः संगच्छस्व । गमेर्लुङि व्यत्ययेन परस्मै- पदं ततइममग्निं सु सुष्ठु हर्षय ॥ १४ ॥

द्वितीयेनुवाके त्रयोदशसूक्तानि तत्र त्वष्टादुहित्रइत्येतच्चतुर्दशर्चं प्रथमं सूक्तं यमपुत्रोदे- वश्रवानाम ऋषिः आदितोद्वादशः त्रिष्टुभः त्रयोदशीचतुर्दश्यावनुष्टुभौ यद्वा त्रयोदशी पुर- स्ताद्वृहती आदितोद्वयोः सरण्यूर्देवता पूषात्वेतइत्याद्याश्चतस्रः पूषदेवत्याः सरस्वतीं देवयन्तइत्याद्यास्तिस्रः सरस्वतीदेवताकाः आपोअस्मानित्याद्याः पंचर्चोब्देवताकाः तत्र द्रप्सश्चस्कंदेत्याद्यास्तिस्रः सोमदेवत्यावा । तथाचानुक्रान्त—त्वष्टादेवश्रवा द्वे सरण्यू देवते पौष्ण्यश्चतस्रः सारस्वत्यस्तिस्रः पंचाप्योद्रप्सस्तिस्रः सौम्योवांत्ये अनुष्टुभावुपान्त्यापुरस्ता- द्बृहतीवेति । गतः सूक्तविनियोगः । अत्रेतिहासमाचक्षते—त्वष्टृनामकस्य देवस्य सरण्यूस्त्रि शिराश्चेति स्त्रीपुंसात्मकमपत्यद्वयमभूत् ततस्त्वष्टा सरण्यूनामिकां पुत्रीं विवस्वते प्रायच्छ- त् ततस्तस्यां विवस्वतः सकाशात् यमयम्यौ विजज्ञाते ततः कदाचिदात्मसदृश्यादेवजनि- तायाः स्त्रियः समीपे तदपत्यद्वयं निधाय स्वयमाश्वं रूपं कृत्वा उत्तरान् कुरून् प्रति जगाम । अथ विवस्वानेतां स्त्रियं सरण्यूमिति मन्वानामरंसीत् तस्यां मनुर्नाम राज र्षिरजायत । ततोविवस्वानेषा सरण्यूर्न भवतीति विज्ञाय स्वयमप्यश्वोभूत्वा तामश्वरू- पिणीं प्रायासीत् ततः संक्रीडमानयोस्तयोः स्वभूतं रेतः पृथिव्यां पपात । अथ साग- र्भकामनया तत्पतितं रेतः आजघ्रौ ततः तस्याः सकाशात् नासत्योदस्रश्चेत्युभाश्विनाव- जायेतामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२