मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् १

संहिता

त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति ।
य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥

पदपाठः

त्वष्टा॑ । दु॒हि॒त्रे । व॒ह॒तुम् । कृ॒णो॒ति॒ । इति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । सम् । ए॒ति॒ ।
य॒मस्य॑ । मा॒ता । प॒रि॒ऽउ॒ह्यमा॑ना । म॒हः । जा॒या । विव॑स्वतः । न॒ना॒श॒ ॥

सायणभाष्यम्

त्वष्टा एतन्नामकोदेवः दुहित्रे षष्ठ्यर्थे चतुर्थी दुहितुः सरण्यूनामिकायाः वहतुं वहनं विवाहं एधिवह्योश्चतुरिति वहेश्चतुप्रत्ययः तं कृणोति करोतीति एतेन हेतुना इदं विश्वं सर्वं भुवनं भूतजातं समेति तं विवाहं समागमत् पर्युह्यमाना विवस्वता उद्वोढव्या यमस्य यम्याश्च माता महोमहतः विवस्वतोजाया भार्या सरण्यूः ननाश उत्तरान् कुरून् प्रतिन- ष्टा अगच्छदित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३