मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् ४

संहिता

आयु॑र्वि॒श्वायु॒ः परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥

पदपाठः

आयुः॑ । वि॒श्वऽआ॑युः । परि॑ । पा॒स॒ति॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् ।
यत्र॑ । आस॑ते । सु॒ऽकृतः॑ । यत्र॑ । ते । य॒युः । तत्र॑ । त्वा॒ । दे॒वः । स॒वि॒ता । द॒धा॒तु॒ ॥

सायणभाष्यम्

विश्वायुः सर्वान्नः सर्वत्रगमनशीलोवा आयुः वकारलोपश्छान्दसः वायुः यद्वा छन्दसी- णइति उण् प्रत्यये वृद्धौ च कृतायां रूपम् । गन्ता वायुः त्वा त्वां परिपासति परिपातु पूषानुज्ञया परितोरक्षतु । पा रक्षणे लेटि सिप्यडागमः । प्रपथे प्रकृष्टे मार्गे स्वर्गे पुरस्ता- त् सर्वेषां प्रथममेव वर्तमानः पूषा स्वयमेव त्वा त्वां प्रमितं यजमानं पातु रक्षतु । सुकृतः पुण्यकर्माणः यत्र यस्मिन्देशे आसते तिष्ठन्ते यत्र वा ते सुकृतः ययुः प्राप्ताः तत्र तस्मिन् स्थाने देवोदीप्यमानः सविता सर्वस्य स्वस्वकर्मणि प्रेरकः एतन्नामकोदेवः एत नामकोदेवः त्वा त्वां दधातु निदधातु ॥ ४ ॥ एकादशिनस्य पौष्णस्य पसोर्हविषः पूषेमाइत्यनुवाक्या । पूषेमाआशाअनुवेदसर्वाः शु- क्रंतेअन्यद्यजतमितिहि सूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३