मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् ५

संहिता

पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वा॒ः सो अ॒स्माँ अभ॑यतमेन नेषत् ।
स्व॒स्ति॒दा आघृ॑णि॒ः सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥

पदपाठः

पू॒षा । इ॒माः । आशाः॑ । अनु॑ । वे॒द॒ । सर्वाः॑ । सः । अ॒स्मान् । अभ॑यऽतमेन । ने॒ष॒त् ।
स्व॒स्ति॒ऽदाः । आघृ॑णिः । सर्व॑ऽवीरः । अप्र॑ऽयुच्छन् । पु॒रः । ए॒तु॒ । प्र॒ऽजा॒नन् ॥

सायणभाष्यम्

पूषा देवः इमाः सर्वाआशाः प्राच्याद्यादिशः अनुवेद आनुपूर्व्येण जानाति इमाः सुखे न गंतव्याः असुखेनेति वा एवमनुक्रमेण जानातीत्यर्थः । एवं सति अस्मान् प्रमिते यज-मानोब्रवीति पुत्रमुखेन याजकमुखेन वा सपूषा अस्मान् अभयतमेन अत्यन्तं भयरहितेन मार्गेन नेषत् नयतु । कथं स्वस्तिदाः कल्याणस्य दाता आघृणिः आगतदीप्तियुक्तः सर्व- वीरः सर्वैः वीरैः कर्मणि समर्थैः ऋत्विग्भिरुपेतः अप्रयुच्छन् अप्रमाद्यन् प्रजानन् अस्मा- कं फलाफले विजानानः सन् पुरएतु अस्माकं पुरस्ताद्गच्छतु यथा अस्माकं भयं न भव- ति तथा गच्छत्वित्यर्थः ॥ ५ ॥ एकादशिनस्य पोष्णस्य पशोः पुरोडाशस्य प्रपथेपथामिति याज्या । सूत्रितंच—प्रपथे पथामजनिष्टपूषा पथस्पथःपरिपतिंवचस्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३