मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् ६

संहिता

प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः ।
उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ॥

पदपाठः

प्रऽप॑थे । प॒थाम् । अ॒ज॒नि॒ष्ट॒ । पू॒षा । प्रऽप॑थे । दि॒वः । प्रऽप॑थे । पृ॒थि॒व्याः ।
उ॒भे इति॑ । अ॒भि । प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे । स॒धऽस्थे॑ । आ । च॒ । परा॑ । च॒ । च॒र॒ति॒ । प्र॒ऽजा॒नन् ॥

सायणभाष्यम्

पथां अन्तरिक्षगमनहेतुभूतानां मार्गाणां मध्ये प्रपथे यः प्रकृष्टः पंथाअस्ति तत्र पूषा अजनिष्ट प्रादुरभूत् पुण्यकर्मणां सुगतिप्रापणार्थमवस्थितइतिभावः । तथा दिवोद्युलोकस्य च मार्गाणां मध्ये प्रपथे प्रकृष्टे मार्गे मनुष्याणां तत्तत्कर्मणि प्रवर्तनार्थं प्रादुर्भूतइत्यर्थः । सोयं पूषा प्रियतमे सर्वस्येष्टतमे सधस्थे सर्वेषां सहावस्थानभूते उभे द्यावापृथिव्यावभि लक्ष्य आचरति आभिमुख्येन चरति सुकृतिनां सुकृतफलप्रदर्शनायानुकूलं चरतीत्यर्थः । तथा पराचरति दुष्कर्मणां प्रतिकूलं गच्छति । किं कुर्वन् प्रजानन् अनेनेदं कर्म कृतं अस्य कर्मणइदं फलमिति अविशेषेण जानानः ॥ ६ ॥ व्यूह्ळस्य दशरात्रस्य त्रुतीये छन्दोमे प्रउगे सारस्वततृचस्य सरस्वतींदेवयन्तइत्येषा आद्या । सूत्र्यतेहि—प्रब्रह्माणोअंगिरसोनक्षंत सरस्वतींदेवयन्तोहवन्तइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४