मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् ७

संहिता

सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने ।
सर॑स्वतीं सु॒कृतो॑ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥

पदपाठः

सर॑स्वतीम् । दे॒व॒ऽयन्तः॑ । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒ध्व॒रे । ता॒यमा॑ने ।
सर॑स्वतीम् । सु॒ऽकृतः॑ । अ॒ह्व॒य॒न्त॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥

सायणभाष्यम्

देवयन्तः देवान् यष्टुं स्तोतुं च कामयमानायजमानाः सरस्वतीं एतन्नामिकां मध्यम- स्थानदेवतां हवन्ते कर्मावयवत्वायाह्वयन्ति । तथा तायमाने स्तुतिभिर्हविर्भिश्च विस्तार्य माणे अध्वरे यज्ञे सरस्वतीं यजन्तीति शेषः । सुकृतः पुण्यकर्माणः सरस्वतीं अह्वयन्त फलप्रदानायाह्वयन्ते यतएवमतः कारणात् सरस्वती देवी दाशुषे हवींषि दत्तवते यज- मानाय वार्यं वरणीयं कर्मफलं दात् प्रयच्छतु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४