मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् ८

संहिता

सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती ।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥

पदपाठः

सर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । स्व॒धाभिः॑ । दे॒वि॒ । पि॒तृऽभिः॑ । मद॑न्ती ।
आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ । अ॒न॒मी॒वाः । इषः॑ । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

हे सरस्वति हे देवि या त्वं सरथं पितृभिः सह समानेन रथेनयुक्तं यथा भवति तथा ययाथ अस्मदीयं यज्ञं प्राप्तासि । किंकुर्वती पितृभिः सह स्वधाभिर्हविर्लक्षणैरन्नैः मदन्तीमाद्यन्ती यज्ञं गच्छसीति संबन्धः । सा त्वं बर्हिषि अस्मिन् वेदिस्तरणे यज्ञे आसद्य उपविश्य मादयस्व हविर्भिस्तृप्ता भव आत्मानं तर्पय वा । ततस्तृप्ता सती त्वं अनमीवाः अमीवा रोगः तद्वर्जितानि आरोग्यजननानि इषोन्नानि अस्मे अस्मभ्य्माधेहि पर्याप्तं प्रयच्छ ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४