मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् ९

संहिता

सर॑स्वतीं॒ यां पि॒तरो॒ हव॑न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः ।
स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥

पदपाठः

सर॑स्वतीम् । याम् । पि॒तरः॑ । हव॑न्ते । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒ऽनक्ष॑माणाः ।
स॒ह॒स्र॒ऽअ॒र्घम् । इ॒ळः । अत्र॑ । भा॒गम् । रा॒यः । पोष॑म् । यज॑मानेषु । धे॒हि॒ ॥

सायणभाष्यम्

यां त्वां सरस्वतीं पितरोहवन्ते आह्वयन्ति । कीदृशाः दक्षिणा । दक्षिणादाजिति आच् प्रत्ययः । दक्षिणतआगत्य यज्ञमभिनक्षमाणाः अभितोगच्छन्तोव्याप्नुवन्तः अत्रास्मिन् यज्ञे सहस्रर्घं बहुभिः पूजनीयं उपयोज्यं इळोन्नस्य भागं रायोधनस्य पोषं पुष्टिं च यजमानेषु त्वं धेहि स्थापय ॥ ९ ॥ अवभृथस्थाने आपोअस्मानित्येषा । सूत्रितंच—ततआचम्याप्लवन्तआपोअस्मान्मातरः शुंधयन्त्विति । दशमेहनि वपामार्जनेप्येषा । सूत्रितंच—इदमापःप्रवहतेत्येतस्याःस्थानेआपो- अस्मान्मातरः शुंधयंत्विति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४