मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् १०

संहिता

आपो॑ अ॒स्मान्मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्व॑ः पुनन्तु ।
विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्य॒ः शुचि॒रा पू॒त ए॑मि ॥

पदपाठः

आपः॑ । अ॒स्मान् । मा॒तरः॑ । शु॒न्ध॒य॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒ऽप्वः॑ । पु॒न॒न्तु॒ ।
विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुचिः॑ । आ । पू॒तः । ए॒मि॒ ॥

सायणभाष्यम्

मातरः जगतोमातृस्थानीयाआपः अस्मान् शुंधयन्तु प्रोक्षणेन शोधयन्तु । तथा घृतप्वः घृतमुदकं तेनास्मान् पुनन्तीति तास्तथोक्ताआपः यद्वा घृतप्वः घृतं गव्यं तेन पुनन्ति । तथा ब्राह्मणं घृतेननोघृतप्वः पुनन्तीति । तद्वैसुपूतंयत् घृतेनपूयतेइति । ताआपः घृतेन प्रत्यक्षेणोदकेन नोस्मान् पुनन्तु हि यस्मात् देवीर्देव्यः देवनशीलाआपः विश्वं सर्वं रिप्रं पापं प्रवहन्ति पुरुषसकाशात् प्रगमयन्ति अपनयन्तीति यावत् । इत् अनन्तरं आभ्यः अद्भ्यः आपूतः आभिमुख्येन शुद्धः सन् स्तोता अहं उदैमि उद्गच्छामि ऊर्ध्वं स्वर्गं गच्छा मीत्यर्थः ॥ १० ॥ सुत्येहनि द्रप्सश्चस्कन्देत्यादिके द्वे विप्रुड्ढोमार्थे । सूत्रितंच—द्रप्सश्चस्कन्देति द्वाभ्या वि- प्रुढ्ढोमौ हुत्वेति । स्कन्नहविरभिर्मर्शनेपि द्रप्सइत्येषा । आहुतिर्बहिष्परिधि यदिस्कन्देत्तदा आग्नीध्रः अनया जुहुयात् । स्कन्नमभिमृशेदितिप्रकृत्य सूत्रितं—द्रप्सश्चस्कन्देत्याहुतिश्चेद्वहि- ष्परिध्याग्नीध्रएनां जुहुयादिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४