मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् ११

संहिता

द्र॒प्सश्च॑स्कन्द प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्व॑ः ।
स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्रा॑ः ॥

पदपाठः

द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒मान् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । यः । च॒ । पूर्वः॑ ।
स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्राः॑ ॥

सायणभाष्यम्

द्रप्सः अभिषूयमाणस्य सोमस्य रसः प्रथमान् पूर्वभाविनः पार्थिवान् लोकान् द्यून् दीप्यमानान् द्युलोकांश्च अनुलक्षीकृत्य चस्कन्द स्कन्नवान् गतवान् । तदेवाह इमं परिदृश्य मानं योनिं स्थानभूतं लोकं च यश्च अस्मत्पूर्वोस्ति तमनुगतवान् समानं साधारणं योनिं द्यावापृथिवीलक्षणं स्थानमनुसंचरन्तं सम्यग्गच्छन्तं द्रप्सं सोमरसं विप्रुल्लक्षणं सप्तहोत्राः सप्तसंख्याकाः विप्रुड्ढोमस्य कर्तारः होतृप्रभृतयोवयं अनु आनुपूर्व्येण जुहोमि जुहुमः । यद्वा द्रप्सः द्रुतगामित्वात् द्रप्सआदित्यउच्यते सआदित्यः पृथिवीं च दिवं च गच्छति समानं योनिमन्तरिक्षं लक्षीकृत्य सम्यक् चरन्तं द्रप्समादित्यमुद्दिश्य सप्तहोत्राः सप्तसंख्याकादिशः यस्यां दिशिसूर्योवर्तते तद्भ्यतिरिक्ताः सप्तसंख्याकादिशः सप्त अनु पश्चाज्जुहोमि यत्रयत्र वर्तते तां तां दिशं द्रव्यत्वेन प्रयच्छामि प्रतिष्ठापयामीत्यर्थः । अत्र वाजसनेयकं—असौवा आदित्योद्रप्सः सदिवंचपृथिवींच स्कन्दतीमंचयोनिमनुयश्चपूर्वइति । इमंचलोकममुंचेत्येतत् समानं योनिम नुसंचरन्तमिति । समानं ह्येषएतंयोनिमनुसंचरन्ति । द्रप्सं जुहोम्यनुसप्तहो- त्राइत्यसौवाआदित्योद्रप्सोदिशः सप्तहोत्राअमुंतदादित्यं दिक्षुप्रतिष्ठापयतीति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५