मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् १२

संहिता

यस्ते॑ द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् ।
अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतम् ॥

पदपाठः

यः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अं॒शुः । बा॒हुऽच्यु॑तः । धि॒षणा॑याः । उ॒पऽस्था॑त् ।
अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्ऽकृतम् ॥

सायणभाष्यम्

हे सोम ते त्वदीयोयोद्रप्सोरसः स्कन्दति अधिषवणचर्मणोन्यत्र गच्छति यश्च ते त्व- दीयः अंशुः रसादितरः सन् स्कन्दति बाहुच्युतः अध्वर्योर्बाहुभ्यां प्रच्युतः सन् स्कन्दति यद्वा बाहुवत् साधनभूताग्रावाणः तैः प्रच्युतोभिषुतः सन् धिषणायाः धिषणेत्यधिषवण- फलकनाम प्रत्येकविवक्षयैकवचनं अधिषवणफलकयोरुपस्थात् समीपस्थात् प्रदेशादन्तत्र गच्छति । तथा अध्वर्योर्वा अभिषुण्वतोध्वर्योर्हस्तात् स्कन्दति वापिवा योरसः पवित्रा द्दशापवित्रात् परिस्कन्दति तं कृ सर्वं द्रप्सं ते त्वदीयं रसं मनसा अन्तःकरणेन स्तोत्रेण वा सह वषट्कृतं वषट्कारेण स्वाहाकारेण कृतं जुहोमि अग्नौ प्रक्षिपामि ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५