मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् १३

संहिता

यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा ।
अ॒यं दे॒वो बृह॒स्पति॒ः सं तं सि॑ञ्चतु॒ राध॑से ॥

पदपाठः

यः । ते॒ । द्र॒प्सः । स्क॒न्नः । यः । ते॒ । अं॒शुः । अ॒वः । च॒ । यः । प॒रः । स्रु॒चा ।
अ॒यम् । दे॒वः । बृह॒स्पतिः॑ । सम् । तम् । सि॒ञ्च॒तु॒ । राध॑से ॥

सायणभाष्यम्

हे सोम ते त्वदीयोयोद्रप्सोरसोन्यत्र स्कन्नोगतः यश्च ते त्वदीयः तव कारणभूतोशुः लताखंडः रसादितरोभवति स्रुचा पात्रविशेषेण गृहीतः सोमः अवः अवस्तात् स्कन्दते परः परस्ताद्वा अतिरिक्तोभवति तमिमं सोमं अयं बृहस्पतिरेतन्नामकोदेवः संसिंचतु सम्यक् प्रक्षारयतु । किमर्थं राधसे अस्माकं धनार्थं स्कन्नेहि सोमे प्रजापश्वादिकमपस्कन्नं भवति खलु ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५