मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् १

संहिता

परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥

पदपाठः

पर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒हि॒ । पन्था॑म् । यः । ते॒ । स्वः । इत॑रः । दे॒व॒ऽयाना॑त् ।
चक्षु॑ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । मा । नः॒ । प्र॒ऽजाम् । रि॒रि॒षः॒ । मा । उ॒त । वी॒रान् ॥

सायणभाष्यम्

हे मृत्यो सर्वेषां मारक एतन्नामक देव परमन्यं पंथां पंथानं अनु आनुपूर्व्येण परेहि पराङ्मुखोगच्छायजमानादितिशॆषः । कोसौ पंथाः ते तव स्वः स्वभूतः देवयानात् देवा अनेन मार्गेण गच्छन्तीति देवयानोदेवमार्गः तस्मादितरोयः पंथाः तं प्रगच्छ । न केवलं मत्तः परागच्छ अपितु चक्षुष्मते दर्शनवते श्रृण्वते सर्वं अप्रतिहतसर्वेंद्रियविज्ञानायेत्यर्थः । ते तुभ्यं ब्रवीमि कथयामि नोस्माकं प्रजां दुहितृदौहित्रात्मिकां मारिरिषः माहिंसीः । उतापिच वीरान् पुत्रपौत्रादीन् माहिंसीः मत्परागमनेन रक्षेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६