मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् २

संहिता

मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैत॒ द्राघी॑य॒ आयु॑ः प्रत॒रं दधा॑नाः ।
आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥

पदपाठः

मृ॒त्योः । प॒दम् । यो॒पय॑न्तः । यत् । ऐत॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ।
आ॒प्याय॑मानाः । प्र॒ऽजया॑ । धने॑न । शु॒द्धाः । पू॒ताः । भ॒व॒त॒ । य॒ज्ञि॒या॒सः॒ ॥

सायणभाष्यम्

हे मृतस्य ज्ञातयः मृत्योः परागच्छतस्तस्य पदं पद्यतेस्मिन् इति पदं पितृयागः तं योपयन्तः विमोहयन्तः परिवर्जयन्तः यद्यस्मात् एतदेव यानीयपथागतवन्तुस्तस्मात् द्राघी यः दीर्घतरं आयुर्जीवनं प्रतरं प्रकृष्टतरमत्यर्थं दधानाः धारयन्तोभवथ । किंच हे यज्ञियासः यज्ञार्हा यज्ञसंपादिनोयजमानाः प्रजया पुत्रपौत्रादिकया धनेन गवाश्वादिकेन च आप्याय मानाः वर्तमानाः सन्तः शुद्धाः जन्मान्तरसंचितदुरितक्षयात् शुद्धाभवत पूताः वर्तमान जन्मोपचितदुरितक्षयाच्च पूताभवत ॥ २ ॥ पैतृमेधिकेकर्मणि अमात्याः इमेजीवाविमृतैरितिसव्यावृतोव्रजन्ति । सूत्रितंच—इमेजी- वाविमृतैरितिसव्यावृतोव्रजन्तीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६