मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् ४

संहिता

इ॒मं जी॒वेभ्य॑ः परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् ।
श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥

पदपाठः

इ॒मम् । जी॒वेभ्यः॑ । प॒रि॒ऽधिम् । द॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑रः । अर्थ॑म् । ए॒तम् ।
श॒तम् । जी॒व॒न्तु॒ । श॒रदः॑ । पु॒रू॒चीः । अ॒न्तः । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥

सायणभाष्यम्

अनया जीवरक्षार्थं पाषाणं परिधिरूपेण स्थापयन्ति । जीवेभ्यः जीवद्भ्यः पुत्रपौत्रादि भ्यः तेषां रक्षणार्थं इमं परिधिं मृत्योः परिधानभूतं पाषाणं दधासि निदधामि ततएषां जीवतां मध्ये अपरोन्यः एनमिमं अर्थं अर्तेरिदं रूपं गन्तव्यं मरणाख्यंमार्गं नु क्षिप्रं मा- गात् मागच्छतु एतदर्थं परिधिं स्थापयामीतिसंबन्धः । किंच पुरूचीः बहुवंचनाः बहुगम- नाः शतं शरदः एतत्संख्याकान् वर्षान् जीवन्तु स्वस्वप्राणान् धारयन्तु । तथा पर्वतेन शिलोच्चयेन मृत्युं सर्वेषां मारकमेतन्नामाकं अन्तर्दधतां अन्तर्हितं कुर्वन्तु यथा नागच्छति तथा कुर्वतामित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६