मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् ५

संहिता

यथाहा॑न्यनुपू॒र्वं भव॑न्ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒धु ।
यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयैषाम् ॥

पदपाठः

यथा॑ । अहा॑नि । अ॒नु॒ऽपू॒र्वम् । भव॑न्ति । यथा॑ । ऋ॒तवः॑ । ऋ॒तुऽभिः॑ । यन्ति॑ । सा॒धु ।
यथा॑ । न । पूर्व॑म् । अप॑रः । जहा॑ति । ए॒व । धा॒तः॒ । आयूं॑षि । क॒ल्प॒य॒ । ए॒षाम् ॥

सायणभाष्यम्

यथा येन प्रकारेण अहानि अहोरात्रात्मकानि दिनानि अनुपूर्वं पूर्वमनुक्रमेण भवन्ति परिवर्तन्ते यथा च ऋतवोवसन्तादयऋतुभिः सह साधु शोभनं अविपर्यासेन यन्ति गच्छ न्ति यथा च पूर्वं पूर्वकालीनं पितरं अपरः अर्वाक्वालीनः पुत्रोन जहाति न परित्यजति पूर्वमरणेन एव एवं तेनैवोक्तप्रकारेण हे धातः सर्वेषां धारयितरेतन्नामक देव एषामस्म- त्कुलीनानां जीवानां आयूंषि जीवनानि कल्पय समर्थय कुर्वित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६