मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् ६

संहिता

आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ ।
इ॒ह त्वष्टा॑ सु॒जनि॑मा स॒जोषा॑ दी॒र्घमायु॑ः करति जी॒वसे॑ वः ॥

पदपाठः

आ । रो॒ह॒त॒ । आयुः॑ । ज॒रस॑म् । वृ॒णा॒नाः । अ॒नु॒ऽपू॒र्वम् । यत॑मानाः । यति॑ । स्थ ।
इ॒ह । त्वष्टा॑ । सु॒ऽजनि॑मा । स॒ऽजोषाः॑ । दी॒र्घम् । आयुः॑ । क॒र॒ति॒ । जी॒वसे॑ । वः॒ ॥

सायणभाष्यम्

हे मृतस्य स्वजनाः पुत्रपौत्रादयः जरसं जरां वृणानाः संभजपानायूयं आयुर्जीवनमा- रोहत अधितिष्ठत अनुपूर्वं आनुपूर्व्येण अव्ययीभावः पूर्वोज्येष्ठः ज्येष्ठानुपूर्व्या यतमानाः प्रयत्नं कुत्वन्तोयूयं यतिस्थ यत्संख्याकाभवथ यच्छब्दाच्छान्दसोडतिः सुजनिमा शोभन- जननः त्वष्टा एतन्नामकोदेवः सजोषाभवद्भिः संगतः सन् इहास्मिन् कर्मणि प्रवृत्तानां वोयुष्माकं जीवसे जीवनाय दीर्घं प्रभूतमायुः करति करोतु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७