मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् ८

संहिता

उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ ।
ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥

पदपाठः

उत् । ई॒र्ष्व॒ । ना॒रि॒ । अ॒भि । जी॒व॒ऽलो॒कम् । ग॒तऽअ॑सुम् । ए॒तम् । उप॑ । शे॒षे॒ । आ । इ॒हि॒ ।
ह॒स्त॒ऽग्रा॒भस्य॑ । दि॒धि॒षोः । तव॑ । इ॒दम् । पत्युः॑ । ज॒नि॒ऽत्वम् । अ॒भि । सम् । ब॒भू॒थ॒ ॥

सायणभाष्यम्

हे नारि मृतस्य पत्नि जीवलोकं जीवानां पुत्रपौत्रादीनां लोकं स्थानं गृहमभिलक्ष्य उदीर्ष्व अस्मात् स्थानादुत्तिष्ठ । ईर गतौ आदादिकः । गतासुं अपक्रान्तप्राणं एतं पतिं उपशॆषे तस्य समीपे स्वपिषि तस्मात् त्वं एहि आगच्छ । गस्मात् त्वं हस्तग्राभस्य पा- णिग्राहं कुर्वतः दिधिषोः गर्भस्यनिधातुः तवास्य पत्युः संबन्धादागतं इदं जनित्वं जाया- त्वं अभिलक्ष्य संबभूथ संभूतासि असुसरणनिश्चयं अकार्षीः तस्मादागच्छ ॥ ८ ॥ क्षत्रियस्य धनुर्हस्तादित्यनया धनुःप्रहरेत् । सूत्रितंच—धनुर्हस्तादाददानोमृतस्येतिधनु- रिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७