मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् १०

संहिता

उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा॑म् ।
ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा॑ पातु॒ निरृ॑तेरु॒पस्था॑त् ॥

पदपाठः

उप॑ । स॒र्प॒ । मा॒तर॑म् । भूमि॑म् । ए॒ताम् । उ॒रु॒ऽव्यच॑सम् । पृ॒थि॒वीम् । सु॒ऽशेवा॑म् ।
ऊर्ण॑ऽम्रदाः । यु॒व॒तिः । दक्षि॑णाऽवते । ए॒षा । त्वा॒ । पा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्था॑त् ॥

सायणभाष्यम्

मातरं मातृभूतां भूमिं अस्माभिर्भूमौ निधीयमानस्त्वं उपसर्प उपगच्छ अनुप्रविशॆत्यर्थः । कीदृशीं उरुव्यचसं बहुव्याप्तिकां पृथिवीं विस्तीर्णां सुशेवां सुसुखां सर्वेषां सुखदात्रीमित्य र्थः तामुपगच्छ । युवतिः यौवनान्विता स्त्रिरूपा इयं भूमिः दक्षिणावते ऋत्विग्भ्योदेयत्वे न धनवते यजमानाय ऊर्णम्रदाः ऊर्णेव ऊर्णास्तुकइव भृद्वी भवति सुकुमारा भवति न बाधयित्रीमित्यर्थः । सेषा पृथिवी निरृतेः मृत्युदेवतायाः उपस्थात् समीपस्थानात् त्वा त्वां अस्थिरूपं यजमानं पातु रक्षतु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७