मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् १३

संहिता

उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम् ।
ए॒तां स्थूणां॑ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मः साद॑ना ते मिनोतु ॥

पदपाठः

उत् । ते॒ । स्त॒भ्ना॒मि॒ । पृ॒थि॒वीम् । त्वत् । परि॑ । इ॒मम् । लो॒गम् । नि॒ऽदध॑त् । मो इति॑ । अ॒हम् । रि॒ष॒म् ।
ए॒ताम् । स्थूणा॑म् । पि॒तरः॑ । धा॒र॒य॒न्तु॒ । ते॒ । अत्र॑ । य॒मः । सद॑ना । ते॒ । मि॒नो॒तु॒ ॥

सायणभाष्यम्

हे अस्थिकुंभ त्वत्परि परिशब्दयोगे पंचमी तवोपरि ते त्वदीयेन कपालेन पृथिवी मुत् स्तभ्रामि प्रतिबध्नामि यथा प्रुथिवी तवोपरिमागच्छति तथापिदधामीत्यर्थः । इमं लोगं कपाललक्षणं लोष्टं निदधत् उपरिस्थापयन्नहं मोरिषं माहिंसिषम् । किंच एतां मया निहितां स्थूणां ते त्वदीयां पृथिव्याधारयित्रीं कपाललक्षणां पितरोधारयन्तु निश्चलां कुर्व- न्तु । ततः ते त्वदीये अत्र अस्मिन् स्थाने यमः पितृपतिः सदना सदनानि स्थानानि मिनोतु परिच्छिनत्तु करोत्वित्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८