मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८, ऋक् १४

संहिता

प्र॒ती॒चीने॒ मामह॒नीष्वा॑ः प॒र्णमि॒वा द॑धुः ।
प्र॒तीचीं॑ जग्रभा॒ वाच॒मश्वं॑ रश॒नया॑ यथा ॥

पदपाठः

प्र॒ती॒चीने॑ । माम् । अह॑नि । इष्वाः॑ । प॒र्णम्ऽइ॑व । आ । द॒धुः॒ ।
प्र॒तीची॑म् । ज॒ग्र॒भ॒ । वाच॑म् । अश्व॑म् । र॒श॒नया॑ । य॒था॒ ॥

सायणभाष्यम्

अनया प्रजपतिः प्रार्थ्यते हे प्रजापते प्रतीचीने प्रतिपूज्ये अहनि तदुपलक्षिते संवत्स- संकुसुकमृषिं आदधुः निहितवन्तः सर्वे देवाः । किमिव इष्वाः बाणस्य पर्णमिव पक्षमिव पक्षं यथा बाणस्य मूले स्थापयन्ति तद्वत् जगत्मूले त्वयि मां स्थापितवन्तः अतोमदीयां प्रतीचीं पूज्यां वाचं स्तुतिरूपां जगृभ गृहाण । कतमित्युच्यते अश्वं आशुगामिनं हयं रशनया रज्ज्वा यथा गृह्णन्ति तद्वत् कर्णाभ्यां मत्कृतां स्तुतिं गृहाणेत्यर्थः ॥ १४ ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरण सा- यणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभष्ये सप्तमाष्टके षष्ठोध्यायः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८