मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९, ऋक् २

संहिता

पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु ।
इन्द्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे॑ना उ॒पाज॑तु ॥

पदपाठः

पुनः॑ । ए॒नाः॒ । नि । व॒र्त॒य॒ । पुनः॑ । ए॒नाः॒ । नि । आ । कु॒रु॒ ।
इन्द्रः॑ । ए॒नाः॒ । नि । य॒च्छ॒तु॒ । अ॒ग्निः । ए॒नाः॒ । उ॒प॒ऽआज॑तु ॥

सायणभाष्यम्

अत्र मंत्रद्रष्टा स्वात्मानं प्रति ब्रूते हे मदीयात्मन् त्वं एनाः एताः अन्यतोभिगंत्रीः गाआपोवा पुनर्निवर्तय पुनःपुनर्मदभिमुखीकुरु । तदनंतरं एनाः एताः पुनः भूयोभूयः नि- आकुरु नियताः आत्मायत्ताः कुरु । किंच इन्द्रोपि तव सहायभूतः सन् एनाएताः निय- च्छतु त्वदायत्ताः करोतु । अग्निश्च एनाएताः गाः आपोवा उपाजतु उपगमयतु उअपक्षि- पतुवा उपयोग्याः करोत्वित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः