मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९, ऋक् ३

संहिता

पुन॑रे॒ता नि व॑र्तन्ताम॒स्मिन्पु॑ष्यन्तु॒ गोप॑तौ ।
इ॒हैवाग्ने॒ नि धा॑रये॒ह ति॑ष्ठतु॒ या र॒यिः ॥

पदपाठः

पुनः॑ । ए॒ताः । नि । व॒र्त॒न्ता॒म् । अ॒स्मिन् । पु॒ष्य॒न्तु॒ । गोऽप॑तौ ।
इ॒ह । ए॒व । अ॒ग्ने॒ । नि । धा॒र॒य॒ । इ॒ह । ति॒ष्ठ॒तु॒ । या । र॒यिः ॥

सायणभाष्यम्

एनाएताःईदृश्योगावः आपोवा पुनर्निवर्तन्तां भूयोभूयोमां प्रत्यागच्छंतु आगत्य । च गोपतौ सास्नादिमतीनां धेनूनां वृष्टिलक्षणानामपां च पालके अस्मिन्नीदृशे मयि पुष्यन्तु आत्मायत्तत्वेन स्थित्वा पुष्टाभवन्तु । पुष्टाः सतीस्ताः हे अग्ने त्वं इहैव अस्मिन्नेव मयि निधारय नियमेन स्थापय । या रयिः यदपि व्रीह्यादिकं धनमस्ति तदपि धनं गोसहितं इहास्मिन्नेव गोपतौ मयि तिष्ठतु निवसतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः